|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.83. अध्यायः 083
Mahabharata - Drona Parva - Chapter Topics
जयद्रथवधस्य दुष्करत्वाशङ्किनो युधिष्ठिरस्य कृष्णेन समाश्वासनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
युधिष्ठिर उवाच। 7-83-0x(4478)(47839)
सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत॥ 7-83-1(47840)
सञ्जाय उवाच। 7-83-2x(4479)
वासुदेवोऽपि तद्युक्तं प्रत्युवाच युधिष्ठिरम्।
दर्शनादेव ते सौम्य न किञ्चिदशुभं मम॥ 7-83-2(47841)
सञ्जय उवाच। 7-83-3x(4480)
ततश्च प्रकृतीः क्षत्ता न्यवेदयदुपस्थिताः।
अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम्॥ 7-83-3(47842)
विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम्।
चेदिपं धृष्टकेतुं च द्रुपदं च महारथम्॥ 7-83-4(47843)
शिखण़्डिनं यमौ चैव चेकितानं सकेकयम्।
युयुप्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम्॥ 7-83-5(47844)
युधामन्यु सुबाहुं च द्रौपदेयांश्च सर्वशः।
एतांश्च सुहृदश्चान्यान्दर्शयामास पाण्डवम्॥ 7-83-6(47845)
अनुज्ञाताश्च पार्थेन स्वासीना आसनेषु ते।
सर्वेष्वथ परार्ध्येषु यथार्हं वन्द्य पाण्डवम्॥ 7-83-7(47846)
एकस्मिन्नासने वीरावुपविष्टौ महाबलौ।
कृष्णश्च युयुधानश्च वेद्यामिव हुताशनौ॥ 7-83-8(47847)
ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम्।
अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः॥ 7-83-9(47848)
एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः।
प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च॥ 7-83-10(47849)
त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम्।
क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः॥ 7-83-11(47850)
त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल।
सुखमायत्तमत्यर्थं यात्रा च मधुसूदन॥ 7-83-12(47851)
स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम।
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता॥ 7-83-13(47852)
स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात्।
परां तितीर्षतामद्य प्लुवो नो भव माधव॥ 7-83-14(47853)
नहि तत्कुरुते योधः कार्तवीर्यसमोऽपि यः।
युधि यत्कुरुषे कृष्ण सारथ्यं त्वं समास्थितः॥ 7-83-15(47854)
यथैव सर्वास्वापत्सु पासि वृष्णीञ्जनार्दन।
तथैवास्मान्महाबाहो वृजिनात्त्रातुमर्हसि॥ 7-83-16(47855)
त्वमगाधेऽप्लवे मग्नान्पाण्डवान्कुरुसागरे।
समुद्धर प्लुवो भूत्वा शङ्खचक्रगदाधर॥ 7-83-17(47856)
नमस्ते देवदेवेश सनातन विशातन।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम॥ 7-83-18(47857)
नारदस्त्वां समाचख्यौ पुराणमृषिसत्तमम्।
वरदं शार्ङ्गिणं श्रेष्ठं तत्सत्यं कुरु माधव॥ 7-83-19(47858)
इत्युक्तः पुण्डरीकाक्षो धर्मराजेन संसदि।
तोयमेघस्वनो वाग्मी प्रत्युवाच युधिष्ठिरम्॥ 7-83-20(47859)
वासुदेव उवाच। 7-83-21x(4481)
सामरेष्वपि लोकेषु सर्वेषु न तथाविधः।
शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः॥ 7-83-21(47860)
वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः।
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम्॥ 7-83-22(47861)
स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः।
सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति॥ 7-83-23(47862)
अहं च तत्करिष्यामि तथा कुन्तीसुतोऽर्जुनः।
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवेन्धनम्॥ 7-83-24(47863)
अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम्।
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः॥ 7-83-25(47864)
तस्याद्य गृध्राः श्येनाश्च चण्डगोमायवस्तथा।
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः॥ 7-83-26(47865)
यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाऽप्यसौ।
राजधानीं यमस्याद्य हतः प्राप्स्यति दुर्मतिः॥ 7-83-27(47866)
निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति।
विशोको विज्वरो राजन्भव शान्ति पुरस्कृतः॥ ॥ 7-83-28(47867)
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि त्र्यशीतितमोऽध्यायः॥ 83 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-83-11 निराक्रियामपसारणम्॥ 5-83-12 यात्रा स्थितिः॥ 5-83-16 वृजिनात् व्यसनात्॥ 5-83-18 सनातन अनादिनिधन। विशा तन संहर्तः। कृष्ण संसारकर्षक। पुरुषोत्तम परमात्मन् ॥ 5-83-22 युद्धशौण्डः युद्धप्रवीणः॥ 5-83-83 त्र्यशीतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|